The King's Monkey Servant

नृप सेवक वानर-कथा

तस्माच्चिरायुरिच्छत नृपेण मूर्खोऽनुचरो न रक्षणियः । 

कस्यचिद्राझो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽन्तःपुरेऽप्यप्रतिषिद्ध्प्रसरोऽतिविश्वासस्थानप्रभूत् । 
एकदा राझो निद्रागतस्य वानरो व्यजनं नीत्वा वायुं विदधति राझो वक्षःस्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तश्रैथपविशति । 

ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुधेन सता तिक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिका उड्डिय गता । 
तेन शितधारेणासिना राझो वक्षो द्विधा जातं, राजा मृतश्च ।

No comments:

Post a Comment