आश्वयुज शुक्लदशमी / विजयदशमी

No automatic alt text available.

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोSस्तु ते॥


नवरात्राणाम् आचरणानन्तरं दशमं दिनं "विजयदशमी" इति उच्यते । अश्वयुजमासस्य शुक्लपक्षस्य प्रथमातः आरभ्य दश अहोरात्राणि आचर्यते। अतः अस्य पर्वणः नाम दशहोरा - दशहरा इति प्रसिद्धम् अभवत्। भारतवर्षस्य विविध प्रान्तानं इदम् पर्वम् विविध रूपेण आचर्यते । तद्दिनं बालानाम् अक्षराभ्यासाय, नूतनस्य उद्योगस्य आरम्भाय, विद्यारम्भाय, बीजवपनाय वा उत्तमं दिनम् । तद्दिने यत्किमपि कार्यम् आरब्धं चेदपि तत्कार्यं विजयं प्राप्नोति इति विश्वास: ।

आश्वयुक् शुक्लदशमी विजयाख्याखिले शुभा ।
प्रयाणेतु विशेषेण किं पुन: श्वणान्विता ॥

इत्येव उक्तम् अस्ति ।

तद्दिने अपराजितादेव्या: पूजां, ग्रामनगराणां सीमोल्लङ्घनं, शमीपूजां, देशान्तरयात्रां, विजययात्रां च कुर्वन्ति । अपराह्णे ग्रामस्य ईशान्यदिशि शुचिप्रदेशे अपराजितादेव्या: पूजां कुर्वन्ति । मध्ये अपराजितादेवीं दक्षिणभागे क्रियाशक्तिरूपिणीं जयादेवीं, वामभागे उमादेवीं च पूजयन्ति । अनन्तरं शमीवृक्षस्य पूजां कुर्वन्ति ।

अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ।
दु:खप्रणाशिनीं धन्यां प्रपद्येहं शमीं शुभाम् ॥ 

इत्येष: शमीवृक्षस्य पूजामन्त्र: ।

अनन्तरं

शमी शमयते पापं शमी लोहितकण्टका ।
धर्यर्जुनबाणानां रामस्य प्रियवादिनी ॥
करिष्यमाणयात्रायां यथाकालं मया ।
तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ॥

इति प्रार्थनां कृत्वा अक्षतासहिताम् आर्द्रां शमीवृक्षस्य अधस्तनमृत्तिकां मङ्गलवाद्यपुरस्सरं गृहम् आनयन्ति प्रसादत्वेन । यात्रां गन्तार: विजयमुहूर्ते प्रयाणस्य आरम्भं कुर्वन्ति । पाण्डवा: अज्ञातवासार्थं गमनात् पूर्वं दिव्यास्त्राणि सर्वाणि अस्मिन् वृक्षे स्थापितवन्त: आसन् । अज्ञातवासं समाप्य विजयदशमीदिने एव प्रतिप्राप्य युद्धसन्नद्धा: अभवन् इति । श्रीराम: अपि रावणवधार्थं गमनात् पूर्वम् एतं वृक्षं पूजयित्वा गतवानिति । रावणसंहारादिकं कृत्वा श्रीरामस्य अयोध्याप्रवेश: अभवत् विजयदशमी दिने एव । तस्य स्मरणार्थम् इदानीमपि उत्तरभारते विजयदशमीदिने रामलीलोत्सवम् आचरन्ति ।

एतद्दिनम् आचार्यत्रयेषु अन्यतमस्य मध्वाचार्यस्य जन्मदिनः। अतः एतद्दिनं 'मध्वजयन्ती' रूपेण उत्सवं भवति ।
अतिनिद्रा, आलस्यं, लोभः, क्रोधः, अहङ्कारः, असूयादयः ऋणात्मकगुणाः अध्यात्ममार्गे अस्मान् रुन्धन्ति । तान् सर्वानपि ऋणात्मकगुणान् तपसा दृढसङ्कल्पेन च छित्वा अध्यात्मकोन्नतिः साध्या इत्ययं सन्देशः नवरात्रिपर्वणि व्यक्तो भवति । प्रार्थनया ध्यानेन च मानवः चित्तशुद्धिं, कल्याणं च समवाप्नोति ।
सङ्कल्पबलेनैव आत्मशक्तेः जागरणं, स्वात्मनिग्रहं च साधितुं पारयामः । पर्वान्ते विजयदशमीति दशमो दिवसः विजयस्य द्योतको भवति ।
विजयदशमी तु नूत्नस्य शुभारम्भस्य सुमुहूर्त इति मन्यते बुधैः । अत एव बालाः तस्मिन् दिने विद्यारम्भं कार्यन्ते । विद्यारम्भस्यादौ लिख्यमाने, “ॐ हरिः, श्री गणपतये नमः” इति वाक्ये आन्तं अक्षरसमाम्नायं अभिव्यङ्क्तः । मानवज्ञानस्य मूलमस्ति खलु अक्षरम्! वाग्देवी यस्य जिह्वाग्रे विलसति सः मूकोऽपि भवति वाग्ग्मी, निरक्षरोऽपि जायते पण्डितः ।

--- ॐ सर्वे भवन्तु सुखिनः । (अंजु आनंद)

No comments:

Post a comment