Showing posts with label रक्षाबन्धनं. Show all posts
Showing posts with label रक्षाबन्धनं. Show all posts

रक्षाबन्धनं

भारतीयाः पर्व रक्षाबन्धनं
भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय शुक्ल पूर्णिमायाम् श्रावणमासस्य रक्षाबन्धनं पर्व आचर्यते
भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतुइति एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्येइति ततः उभौ परस्परं मधुरं भोजयतः भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७।। श्रीमद्भगवद्गीतायाः सप्तमोऽध्याय: ज्ञानविज्ञानयोगः
हे धनञ्जय ! किमपि अन्यत् वस्तु मदपेक्षया उत्कृष्टतरं नास्ति
एतत् सर्वं तन्तौ मणिसमूहाः इव मयि युक्तम् अस्ति