भारतीयाः पर्व रक्षाबन्धनं
भ्रातृभगिन्योः
पवित्रसम्बन्धस्य सम्मानाय शुक्ल पूर्णिमायाम् श्रावणमासस्य रक्षाबन्धनं पर्व आचर्यते ।
भगिनी
ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति
। एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति
। ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।
मत्तः
परतरं नान्यत्किञ्चिदस्ति
धनञ्जय ।
मयि
सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७।। श्रीमद्भगवद्गीतायाः
सप्तमोऽध्याय:
ज्ञानविज्ञानयोगः
हे
धनञ्जय ! किमपि अन्यत् वस्तु मदपेक्षया उत्कृष्टतरं नास्ति ।
एतत्
सर्वं तन्तौ मणिसमूहाः इव मयि युक्तम् अस्ति ।
उक्तश्लोकानुगुणं
भगवतः श्रीकृष्णस्य स्वरूपत्वेन सूत्रं मन्यते । अतः रक्षाबन्धनकाले भगिनी श्री[[कृष्ण]स्य स्मारकं सूत्रं भ्रातुः हस्ते बध्नाति । “द्रौपद्याः प्रत्येकसमस्याकाले
यथा श्रीकृष्णः तस्याः रक्षणम् अकरोत्, तथैव मम भ्राता मम रक्षां कुर्यात्” इत्यपि
भावः ।
सूत्रबन्धनस्य
पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते । "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः च भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति । ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति । अतः रक्षाबन्धनम् इति । आदिभारतीयसंस्कृतौ रक्षाबन्धनं न केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् । यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते । मौक्तिकमालायाः, पुष्पमालायाः च आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते ।
No comments:
Post a Comment