Kartik Mas In Sanskrit


भारतीयकालगणनानुगुणं वर्षस्य १२ मासेषु अयम् अष्टमः मासः । कार्त्तिकमासः श्रेष्ठमास: महाशुभसमयःच। 
मासानांकार्तिक: श्रेष्ठोदेवानांमधुसूदन:। 
तीर्थ नारायणाख्यंहि त्रितयंदुर्लभंकलौ। 
कार्त्तिकमासे शिवपूजा क्रियते। शिवमन्दिरेषु बहवः जनाः दृश्यन्ते। अल्पीयसा आराधनेन अनल्पं फलं लभते नरः इति पुराणानि उद्घोषयन्ति। शिवभक्ताः प्रातःकाले उत्थाय स्नात्वा, शिवाभिषेकादिकं कुर्वन्ति। केचन उपवासादिना, केचन स्तोत्रादिपठनेन, केचिच्च भजनगानानदिना देवमर्चन्ति। 
आमासं शिवनामजपेन, शिवध्यानेन च शुभफलानि लभन्ते।
कार्त्तिकव्रतं महापुण्यप्रदायकं वर्तते। सूर्ये तुलाराशौ स्थिते आमासं नदीस्नानमाचर्य, देवालयं गत्वा हरिहरादीनामाराधनं 
कर्तव्यम्। कार्तिकमासे दीपदानं अन्नदानं बहु कल्याणकारी, अतः यथाशक्ति दीपदानं करणीयम्। अस्मिन् मासे प्रतिदिनं सायंकाले शिवपुराणं, स्कान्दपुराणान्तर्गतं वशिष्ठप्रोक्तं च पारायणं कुर्वन्ति जनाः। 

#Kartik_mas, #Kartika_Masa, #deepdanam #दीपदानं #अन्नदानं

--- ॐ सर्वे भवन्तु सुखिनः । (अंजु आनंद)

No comments:

Post a Comment