The Stork And The Mongoose


                                बक-नकुल-कथा

     उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् ।
     पश्यतो बकमूर्खस्य नकुलेन हता बकाः ॥

अस्ति कस्मिंश्चिद्वनोद्देशे बहुबकसनाथो वटपादपः । तस्य कोटरे कृष्णसर्पः प्रतिवसति स्मः । स च बकबालकानजातपक्षानपि सदैव भक्षयन् कालं नयति स्मः ।



अथैको बकस्तेन भक्षितान्यपत्यानि दृष्ट्वा शिशुवैराग्यात्सरस्तीरमासाद्य वाष्पपूरितनयनोsधोमुखस्तिष्ठति । तञ्च तादृक्चेष्टितमवलोक्य कुलीरकः प्रोवाच -- "माम! किमोवं रुद्यते भवताद्य ?

स आह -- "भद्र ! किं करोमि ? मम मन्दभाग्यस्य बालकाः कोटरनिवासिना सर्पेण भक्षिताः । तद् दुःखदुःखितो रोदिमि । तत्कथय मे यद्यस्ति कश्चिदुपायस्तद्विनाशाय ।

तदाकर्ण्य कुलीरकश्चिन्तयामास -- "अयं तावदस्मज्जातिसहजवैरी।अतस्तत्तथा सत्यानृतमुपदेशं प्रयच्छामि, यथान्येSपि सर्वे बकाः सक्षयमायान्ति ।" । उक्तञ्च --


     नवनीतसमां वाणीं कृत्वा चित्तं तु निर्दयम् ।
     तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥

आह च -- "माम! यद्येवं तन्मत्स्यमांसखण्डानि नकुलविलद्वारात्सर्पकोटरं यावत्प्रक्षिप, यथा नकुलस्तन्मार्गेण गत्वा तं दुष्टसर्पं विनाश्यति ।"

अथ तथानुष्ठिते मत्स्यमांसानुसारिणा नकुलेन तं कृष्णसर्पं निहत्य तेSपि तद् वृक्षाश्रयाः सर्वे बकाः शनैः शनैर्भक्षिताः ।

No comments:

Post a Comment

जयतु संस्कृतं जयतु भारती