Hitopdesha Stories


अस्ति मगध-देशे फुल्लोत्पलाभिधानं सरः । 
तत्र चिरं संकट-विकट-नामानौ हंसौ निवसतः । 
तयोर् मित्रं कंबुग्रीव-नामा कूर्मश् च प्रतिवसति । 
अथैकदा धीवरैर् आगत्य तथोक्तं यत्-अत्रास्माभिर् 
अद्योषित्वा प्रातर् मत्स्य-कूर्मादयो व्यापादयितव्याः ।
तद् आकर्ण्य कूर्मो हंसाव् आह-सुहृदौ !

 
श्रुतो यं धीवरालापः । अधुना किं मया कर्तव्यम्?
हंसाव् आहतुः-ज्ञायतां तावत् । पुनस् तावत् प्रातर् यद् उचितं तत् कर्तव्यम् ।
कूर्मो ब्रूते-मैवम् । यतो दृष्ट-व्यतिकरो हम् अत्र । 

यथा चोक्तम्-

अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा । द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति ॥६॥
ताव् ऊचतुः-कथम् एतत् ?
कूर्मः कथयति-

No comments:

Post a Comment

जयतु संस्कृतं जयतु भारती