🤕 शशि एकस्मिन् दिने मद्यालयं गत्वा चषकत्रयं 🍺🍺🍺मद्यं देहि इत्युक्तम्।

वितारकः 👲 - किमर्थम् चषकत्रयं भोः!

शशि 🤕- पूर्वं वयं त्रीणि मित्राणि मिलित्वा एवं मद्यपानं कुर्वन्ति स्मः इदानीं दौ अपि विदेशं गतवन्तौ!
गमनात् पूर्वं वयं प्रतिज्ञां कृतवन्तः यत् यत्र कुत्रापि भवतु मद्यपानसमये अस्माकं मैत्रीं स्मृत्वा चषकत्रयं पिबामः 😋

वितारकः 👲! अहो!! आश्चर्यं कलिकाले अपि मित्रत्वम् एवमस्ति वा! ☺👍👍👍

दिनानि एवमेव अतीतानि!! प्रतिदिनं शशि मद्यालयं आगत्य चषकत्रयं पिबन्नस्ति 🍺🍺🍺

एकस्मिन् दिने तस्य आगमने सति वितरकः चषकत्रयं पूर्णं परिवेषितवान्! 👲

शशि 🤕- दुःखेन 😣 अद्य आरभ्य चषकद्वयमेव पर्याप्तं भोः 😣😣

वितरकः अपि दुःखेन पृष्टवान् कदा आसीत्?? 😞😞😞 शवशरीरं विदेशात् आनीतं वा!!?
.
.
.
.

शशि🤕!!! कोपेन 😡😡😡
मूर्ख! कस्यापि मरणं नाभवत्!!
सत्यं वदामि अहं मद्यपानं त्यक्तवान् भो:!!! अतः चषकद्वयं पर्याप्तम्।।
😄😂😂😂😂

--- ॐ सर्वे भवन्तु सुखिनः । (अंजु आनंद)

No comments:

Post a Comment